Sbg 14.26 scneel
Sanskrit Commentary By Sri Neelkanth ।।14.26।।अथ कथं त्रीन्गुणानतिवर्तत इत्यस्योत्तरं विवक्षन् साधनभूतासु तिसृषु भूमिषु तृतीयां तनुमानसामाह -- मां चेति। यश्च साधको मां प्रत्यगात्मानम्। चकारस्त्वर्थे पूर्वभूमिस्थापेक्षयास्य वैलक्षण्यं द्योतयति। अव्यभिचारेण वृत्त्यन्तरानन्तरितेन भक्तियोगेन मयि भगवति तैलधारावदविच्छिन्नवृत्तिप्रवाहिमनःप्रणिधानरूपेण,योगेन सेवते ध्यायति स एवं सूक्ष्मीकृतचित्त एतान् गुणान् समतीत्य ध्यानपरिपाकान्ते सत्त्वमपि बाधित्वा ब्रह्मभूयाय ब्रह्मभावाय कल्पते योग्यो भवति।भुवो भावे इति भवतेर्भावे क्यप्।