Sbg 14.26 scang

From IKS BHU
Revision as of 15:16, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।14.26।।मां चेति। अनेन मूलभूतमुपायमुपदिशति। च शब्दोऽवधारणे -- यो मामेव सेवते। अनेन फलादिसाकाङ्क्षो मामङ्गत्वेनाश्रयति? फलं प्रधानतया इति निरस्तः। अत एव न अस्याव्यभिचारिणी भक्तिः फलं प्रति ह्यसौ आस्थावान् इति। यस्तु फलं किंचिदपि अनभिलष्यन् किमेतदलीकमनुतिष्ठसि (?N किमिति तदलीक -- ) इति पर्यनुयुज्यमानोऽपि? निरन्तरभगवद्भक्तिवेधविद्रुतान्तःकरणतया कण्टकितरोमवान् (S उत्कण्टकित -- ) ? वेपमानतनुः विस्फारितनयनयुगलपरिवर्तमानसलिलसंपातः (?N विस्फारतरनयन -- ) तूष्णींभावेनैवोत्तरं प्रयच्छति? स एवाव्यभिचारिण्या भगवतो महेश्वरस्य अग्रशक्त्या (N उग्रशक्त्या) भक्त्या पवित्रीकृतो नान्य इति ज्ञेयम्।