Sbg 14.21 scang
Sanskrit Commentary By Sri Abhinavgupta ।।14.21।।कैरिति। ननु (S ननु यदि देही ननु कथं देही गुणा N ननु देही कथं गुणा -- ) यदि अयं देही? तत् कथं गुणातीतो भवति सर्वथैव हि कयाचित् चित्तवृत्त्या वर्तते? सा च त्रैगुण्यादन्यतमा अवश्यं भवति। अनेन अभिप्रायेण पृच्छति अर्जुनः।