Sbg 14.15 scsh
Sanskrit Commentary By Sri Shankaracharya ।।14.15।। --, रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते। तथा तद्वदेव प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ।।अतीतश्लोकार्थस्यैव संक्षेपः उच्यते --,