न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्

From IKS BHU
Revision as of 16:33, 30 January 2025 by imported>Gagan (Created page with "तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः 1/1/26 स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् 1/1/27 सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः 1/1/26

स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् 1/1/27

सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः 1/1/28

समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः 1/1/29

यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः 1/1/30

अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः 1/1/31