Sbg 14.10 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।14.10।।अनन्तरग्रन्थस्यासङ्गतिशङ्कां परिहरति -- देहाकारेति। परस्परविरुद्धं यथार्थायथार्थज्ञानसुखदुःखसङ्गादिरूपमित्यर्थः। उद्भवाभिभवानियमप्रसङ्गपरिहाराय भगवदनुग्रहनिग्रहहेतूनां कर्मणां विषमविपाकसमयत्वात्तदनुरूपोद्भवाभिभवप्रवाह उपपद्यत इत्याहप्राचीनकर्मवशादिति। यथा वातपित्तकफानां तत्तत्प्रचुरैर्द्रव्यैरुपचयंवृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः [अष्टांगहृ.सू.स्था.1।15] इत्यायुर्वेदविदो वदन्ति? तथाऽत्रापि वक्ष्यमाणसात्त्विकाद्याहारभेदादित्याह -- देहाप्यायनभूताहारवैषम्याच्चेति। ततो देवा अभवन् परासुराः इत्यादि(श्रुति)ष्विव भवतिरत्रोद्भवविषय इत्याहउद्रिक्तं वर्तत इति। रजस्तमसोरुद्भूतयोः परिहारार्थमयमुद्भवाभिभवोपदेशः।