Sbg 14.10 scanand
Sanskrit Commentary By Sri Anandgiri ।।14.10।।इतरेतराविरोधेन वा सत्त्वादयो गुणा युगपदुत्कृष्यते विरोधेन वा क्रमेण वेति संदेहात्पृच्छति -- उक्तमिति। सत्त्वोत्कर्षार्थिनामितराभिभवार्थं क्रमपक्षमाश्रित्योत्तरमाह -- उच्यत इति। सत्त्वाभिवृद्धिमेव विवृणोति -- तदेति। रजस्तमसोस्तिरोधानदशायामिति यावत्। रजसो वृद्धिप्रकारं तत्कार्यं च कथयति -- तथेति। तमसोऽपि विवृद्धिं तत्कार्यं च निर्दिशति -- तम इति।