Sbg 14.10 scram
Sanskrit Commentary By Sri Ramanuja ।।14.10।।यद्यपि सत्त्वादयस्त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः? तथापि प्राचीनकर्मवशाद् देहाप्यायनभूताहारवैषम्यात् च सत्त्वादयःपरस्परसमुद्भवाभिभवरूपेण वर्तन्ते। रजस्तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते। तथा तमःसत्त्वे अभिभूय रजः कदाचित् कदाचित् च रजःसत्त्वे अभिभूय तमः।तत् च कार्योपलब्ध्या एव अवगच्छेद् इत्याह --