Sbg 14.8 scjaya
Sanskrit Commentary By Sri Jayatritha ।।14.8।।तमस्त्वज्ञानजं इत्यस्यअज्ञानाज्जातं (शं.) इत्यपव्याख्यां प्रत्याख्यातुमाह -- अज्ञानमि ति। एतच्चअन्येष्वपि दृश्यते [अष्टा.3।2।101] इति दृशिग्रहणसामर्थ्याल्लभ्यते। कुतः प्रतीत एवार्थो न इत्यत आह -- प्रमादे ति। वाक्यशेषेऽज्ञानस्य तमःकार्यत्ववचनादित्यर्थः।