Sbg 14.8 scram
Sanskrit Commentary By Sri Ramanuja ।।14.8।।ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् ज्ञानं वस्तुयाथात्म्यावबोधः? तस्माद् अन्यत् तद्विपर्ययज्ञानं तमः तु वस्तुयाथात्म्यविपरीतविषयज्ञानजं मोहनं सर्वदेहिनाम् मोहो विपर्ययज्ञानम्? विपर्ययज्ञानहेतुः इत्यर्थः। तत् तमः प्रमादालस्यनिद्रा हेतुतया तद्द्वारेण देहिनं निबध्नाति। प्रमादः कर्तव्यात् कर्मणः अन्यत्र प्रवृत्तिहेतुभूतम् अनवधानम्। आलस्यं कर्मसु अनारम्भस्वभावः? स्तब्धता इति यावत्। पुरुषस्य इन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिः निद्रा तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः मनसः अपि उपरतिः सुषुप्तिः।सत्त्वादीनां बन्धद्वारभूतेषु प्रधानानि आह --