Sbg 14.5 scneel
Sanskrit Commentary By Sri Neelkanth ।।14.5।।एवं ईश्वराश्रयेण प्रकृतिर्भूतानि सृजतीत्युक्तम्? इदानीं सा कथंभूता निबध्नातीति तदुच्यते -- सत्त्वमिति। प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था। ततः सकाशात्परस्पराङ्गाङ्गिभावेन वैषम्येण उद्रिच्यमानाः प्रकृतिसंभवा इत्युच्यन्ते न तु प्रकृतितो वैशेषिकाणामिव द्रव्याद्गुणा अन्ये एते हे महाबाहो? देहे अव्ययमविकारिणमपि देहिनं स्थूणायां वत्समिव रशनाभूता गुणा निबध्नन्ति।