Sbg 14.3 scms

From IKS BHU
Revision as of 15:11, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।14.3।।तदेवं प्रशंसया श्रोतारमभिमुखीकृत्य परमेश्वराधीनयोः प्रकृतिपुरुषयोः सर्वभूतोत्पत्तिंप्रति हेतुत्वं नतु सांख्यसिद्धान्तवत्स्वतन्त्रयोरितीमं विवक्षितमर्थमाह द्वाभ्याम् -- सर्वकार्यापेक्षयाऽधिकत्वात्कारणं महत्? सर्वकार्याणां वृद्धिहेतुत्वरूपाद्ब्रंहणत्वाद्ब्रह्म अव्याकृतं? प्रकृतिस्त्रिगुणात्मिका माया? महद्ब्रह्म तच्च ममेश्वरस्य योनिर्गर्भाधानस्थानम्। तस्मिन्महति ब्रह्मणि योनौ गर्भं सर्वभूतजन्मकारणं अहंबहुस्यां प्रजायेय इतीक्षणरूपं संकल्पं दधामि धारयामि। तत्संकल्पविषयीकरोमीत्यर्थः। यथाहि कश्चित्पिता पुत्रमनुशयिनं व्रीह्याद्याहाररूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतःसेकपूर्वकं गर्भमाधत्ते तस्माच्च गर्भाधानात्स पुत्रः शरीरेण युज्यते तदर्थं च मध्ये कललाद्यवस्था भवन्ति? तथा प्रलये मयि लीनमविद्याकामकर्मानुशयवन्तं क्षेत्रज्ञं सृष्टिसमये भोग्येन क्षेत्रेण कार्यकरणसंघातेन योजयितुं चिदाभासाख्यरेतःसेकपूर्वकं मायावृत्तिरूपं गर्भमहमादधामि। तदर्थं च मध्ये आकाशवायुतेजोजलपृथिव्याद्युत्पत्त्यवस्थाः। ततो गर्भाधानात्संभव उत्पत्तिः सर्वभूतानां हिरण्यगर्भादीनां भवति हे भारत? नत्वीश्वरकृतगर्भाधानं विनेत्यर्थः।