Sbg 13.35 scang
Sanskrit Commentary By Sri Abhinavgupta ।।13.35।।क्षेत्रेति। एवमध्यायेन यदुक्तं ज्ञेयं? ज्ञानं? क्षेत्रक्षेत्रज्ञयोरन्तरं? भूतप्रकृतेश्च (?N क्षेत्रक्षेत्रज्ञयोरन्तरं भूतप्रकृतेरन्तरं भूतप्रकृतेश्च) स्वल्पात् परिणामधर्मत्वात् मोचनम्? तत् ये ज्ञानलक्षणेन (S??N येन ज्ञानलक्षणेन) सर्वत्राप्रतिहतेन अलौकिकेन चक्षुषा पश्यन्ति ते वासुदेवतां प्राप्य लभन्त एव परमं (?N परं) शिवमिति।
।।शिवम्।।