Sbg 13.32 scms

From IKS BHU
Revision as of 15:09, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.32।।आत्मनः स्वतोऽकर्तृत्वेऽपि शरीरसंबन्धादौपाधिकं कर्तृत्वं स्यादित्याशङ्कामपानुदन् यः पश्यति तथात्मानमकर्तारं स पश्यतीत्येतद्विवृणोति -- अनादित्वादिति। अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्मा अव्ययो न व्येतीत्यव्ययः। सर्वविकारशून्य इत्यर्थः। तत्र व्ययो द्विधा धर्मिणः स्वरूपस्यैवोत्पत्तिमत्तया वा? धर्मिस्वरूपस्यानुत्पाद्यत्वेऽपि धर्माणामेवोत्पत्त्यादिमत्तया वा? तत्राद्यमपाकरोति -- अनादित्वादिति। आदिः प्रागसत्त्वावस्था। सा नास्ति सर्वदा सत आत्मनः अतस्तस्य कारणाभावाज्जन्माभावः। नह्यनादेर्जन्म संभवति। तदभावे च तदुत्तरभाविनो भावविकारा न संभवन्त्येव। अतो न स्वरूपेण व्येतीत्यर्थः। द्वितीयं निराकरोति -- निर्गुणत्वादिति। निर्धर्मकत्वादित्यर्थः। नहि धर्मिणमधिकृत्य कश्चिद्धर्म उपैत्यपैति वा धर्मधर्मिणोस्तादात्म्यात्।,अयं तु निर्धर्मकोऽतो न धर्मद्वारापि व्येतीत्यर्थः।अविनाशी वा अरेयमात्माऽनुच्छित्तिधर्मा इति श्रुतेः। यस्मादेष,जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवं षड्भावविकारशून्यः आध्यासिकेन संबन्धेन शरीरस्थोपि तस्मिन्कुर्वत्ययमात्मा न करोति। यथाध्यासिकेन संबन्धेन जलस्थः सविता तस्मिंश्चलत्यपि न चलत्येव तद्वत्। यतो न करोति किंचिदपि कर्म अतः केनापि कर्मफलेन न लिप्यते यो हि यत्कर्मकरोति स तत्फलेन लिप्यते न त्वयम्। अकर्तृत्वादित्यर्थः। इच्छा द्वेषः सुखं दुःखमित्यादीनां क्षेत्रधर्मत्वकथनात् प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच्च। अतएव परमार्थदर्शिनां सर्वकर्माधिकारनिवृत्तिरिति प्राग्व्याख्यातम्। एतेनात्मनो निर्धर्मकत्वकथनात्स्वगतभेदोपि निरस्तः। प्रकृत्यैव च कर्माणीत्यत्र सजातीयभेदो निवारितः? यदा भूतपृथग्भावमित्यत्र विजातीयभेदः? अनादित्वान्निर्गुणत्वादित्यत्र स्वगतो भेद इत्यद्वितीयं ब्रह्मैवात्मेति सिद्धम्।