Sbg 13.32 scval
Sanskrit Commentary By Sri Vallabhacharya ।।13.32।।स्वतः पुरुषस्य प्राकृतसम्बन्धाभाव इत्युपपादयति -- अनादित्वादिति। परमात्माऽन्तःपुरुषः अथवा अक्षररूपत्वेन अनादित्वान्निर्गुणत्वादयं आत्मा जीवः पुरुषोऽव्ययः केवलं भगवदिच्छया स्वतः पृथग्भावितोऽप्यकर्त्ताऽलिप्तः अध्यासेनैव तथा? नान्यथेति भावः।