Sbg 13.28 scneel

From IKS BHU
Revision as of 13:56, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।13.28।।तन्नाशोपायमाह -- सममिति। सममपरिणामिनं कूटस्थं नित्यं सर्वेषु भूतेषु देहाद्याकारेण परिणतेषु तिष्ठन्तम्। एतेन देह एव तदधिगमस्थानमित्युक्तम्। परमेश्वरमन्तर्यामिणं सर्गस्थित्यन्तकर्तारम्। अतएवान्तर्मुखदृष्ट्या विनश्यत्सु तेषु भूतेषु रज्जूरगादिवत्कल्पितत्वाददर्शनं गच्छत्सु विभुत्वादात्मत्वान्नित्यदृग्रूपत्वाच्चाविनश्यन्तं सर्वास्वप्यवस्थास्वदर्शनमगच्छन्तं यः पश्यति स एव पश्यति अन्येऽन्धा इत्यर्थः।