Sbg 13.24 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.24।।ज्ञेयं यत्तदित्यादिना तत्पदार्थस्त्वंपदार्थश्चानन्तरमेव शोधितौ तयोरैक्यं चक्षेत्रज्ञं चापि मां विद्धि इत्युक्तमिदानीं तद्दृष्टिहेतून्यथाधिकारं कथयति -- अत्रेति। ध्यानाख्यं साधनं किंरूपमिति पृच्छति -- ध्यानं नामेति। तद्रूपं वदन्नुत्तरमाह -- शब्दादिभ्य इति। एकाग्रतयोपसंहृत्येति संबन्धः। यच्चिन्तनं प्रत्यक्चेतयितरीति पूर्वेणान्वयः। किं तच्चिन्तनमित्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति -- तथेति। विवक्षितध्यानानुरोधेनेति यावत्? आत्मानं पश्यन्ति परमात्मतयेति शेषः। केचिदित्युत्तमाधिकारिणो गृह्यन्ते। मध्यमाधिकारिणो निर्दिशति -- अन्य इति। सांख्यशब्दितं साधनं किं नामेत्युक्ते विचारजन्यं ज्ञानं तदेव ज्ञानं,हेतुतया योगतुल्यत्वाद्योगशब्दितमित्याह -- सांख्यमिति। अधमानधिकारिणः संगिरते -- कर्मेति। चित्तैकाग्र्यं योगस्तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति तेन गौण्या वृत्त्या योगशब्दितं कर्मेत्याह -- गुणत इति। अपरे पश्यन्त्यात्मानमात्मनेति पूर्ववदनुषङ्गमङ्गीकृत्याह -- तेनेति।