Sbg 13.23 scdhan

From IKS BHU
Revision as of 13:55, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।13.23।।पुरुषमेव साक्षान्निर्दिशति -- उपद्रष्टेति। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्यो व्यापृतो यज्ञविद्याकुशलस्तद्य्वापारगुणदोषणामीक्षिता तथा कार्यकरणानां व्यापारवतां समीपे स्थितः सन् स्वयव्यापृतो द्रष्टा सन्निधिमात्रेण तेषां साक्षी। यद्वा देहचक्षुर्मनोबुद्य्धात्मानो द्रष्टारः तेषां बाह्यो द्रष्टा देहस्तत आरभ्यान्तरतमश्च प्रत्यक्समीप आत्मा द्रष्टा यतः परतरो नास्ति द्रष्टा सोऽतिशयमामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात्। यज्ञोपद्रषश्टृवद्वा सर्वविषयीकरणादुपद्रष्टा। ये स्वयं कुर्वन्तो व्यापारवन्तो भवन्ति तेषु कुर्वत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननमनुमोदनं तस्य संनिधिमात्रेण कर्ता अमुमन्ता? कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते तेन वानुमन्ता? स्वव्यापारेषु प्रवृत्तान् तत्साक्षिभूतः कदाचिदपि न निवारयतीति वाऽनुमन्ता? देहेन्द्रियमनोबुद्धीनां,संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां स्वरुपावधारणस्य चैतन्यात्मकृत्वात् भर्तात्मोच्यते। भोक्ता नित्यचैतन्यस्वरुपेण बुद्धेः सुखदुःखमोहात्मिकान् प्रत्ययान्सर्वविषयविषयान् विभक्ततयोपलब्धातो भोक्ता आत्मोच्यते सर्वात्मत्वात्स्वन्त्रत्वाच्च। महांश्चासावीश्वरश्चेति महेश्वरः देहादिबुद्य्धन्तानां प्रत्गात्मत्वेनाविद्यया प्रकल्पितानां परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा इत्यनेन शब्देन चाप्युक्तः श्रुतौ कथितः। यः परमात्मा श्रुतावुक्तः स एव देहेस्मिन् पुरुषः परः अव्यक्तादुत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इति वक्ष्यमाणः। श्रुतिःसाक्षी चेता केवलो निर्गुणश्चएष भूताधिपतिरेष लोकेश्वर एष लोकपालःईशानं भूतभव्यस्यतस्सृष्ट्वा तदेवानुप्राविशत?अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणिअव्यक्तात्पुरुषः परः इत्याद्या।