Sbg 13.23 scvv

From IKS BHU
Revision as of 13:55, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।13.23।।सदसद्योनिजन्मसमनन्तरभाविनः पुरुषस्वभावानाहउपद्रष्टेति। श्लोकेन द्रष्टा प्रमाणादिवशेन दृश्यानां प्रदर्शकः? उपद्रष्टा यथावत्स्वयमप्रवृत्तः प्रवर्तमानस्यानुसन्धाता? तत्तत्साधर्म्यादिहोपद्रष्ट्टशब्द इत्याहदेहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेणेति। आदिशब्देन प्रेरणं संगृहीतम्। यद्वा प्रवृत्तस्य प्रवर्तकोऽनुमन्तेति भेदमभिप्रेत्य आदिशब्दः। उपद्रष्ट्टत्वानुमन्तृत्वादेः प्रतिसम्बन्धिसापेक्षत्वादधिकरणतया सन्निहितोऽपि देहः प्रतिसम्बन्धितयाप्यर्थादन्वयमर्हतीत्यभिप्रायेणदेहस्येत्युक्तम्। नियन्तृत्वधारकत्वशेषित्वानां शरीरप्रतिसम्बन्ध्यात्मलक्षणानां विभागप्रदर्शनाय प्रवृत्तिविषयोपद्रष्ट्टत्वानुमन्तृत्वयोरेकवाक्यकरणं?तथेत्यादिवाक्यभेदश्च। भर्ता धारकः। उक्तहेतुकं सन्निहितदेहादिविषयमेवास्य महेश्वरत्वमित्याह -- एवमिति। देहजन्यफलभोक्तृत्वकथनेन देहस्य तदर्थतया देहिनः शेषित्वं फलितमित्यभिप्रायेणाह -- देहशेषित्वेनचेति। कर्माधीनजननमरणभागिनि जीव एवेश्वरशब्दस्य परिच्छिन्नविषयतया प्रयोगं दर्शयति -- तथाचेति।


जीवात्मन्येव ज्ञानतो व्याप्त्या परमात्मशब्दप्रयोगोपपत्तये सन्निहितसङ्कोचकान्वयमाहअस्मिन्देह इति। साक्षात्परमात्मविषयत्वे सतिअस्मिन् देहे इत्यसङ्गतमिति भावः। अत्र देहेन्द्रियमनांसीति मनसः पृथगुपादानं तस्यात्मशब्दप्रयोगविषयत्वप्रदर्शनार्थम्। परमशब्दव्यवच्छेद्याभावाज्जीवविषयत्वानुपपत्तिरित्यत्राह -- देहे मनसिचेति। अयं प्रयोगः प्रबन्धान्तरे वा न मृग्यः अपित्वेतत्प्रकरणे श्लोकमात्रव्यवधानेन। अतो व्यवच्छेद्यसन्निधानमपि तद्व्यवच्छेदमात्रार्थत्वस्य व्यवस्थापकमित्यभिप्रायेणअनन्तरमेवेत्युक्तम्। परमात्मशब्दवन्महेश्वरशब्दस्यापि सन्निहितसङ्कोचकावच्छिन्नविषयत्वं चकारातिरिक्तविषयेणापिशब्देनापि प्रतीतमित्याह -- अपिशब्दादिति।उक्तः इत्यनेनापरमात्मन्ययमापेक्षिकः परमात्मादिशब्द इति सूचितम्।पुरुषः परः इत्यत्र परशब्दस्यापि पूर्ववदवच्छिन्नविषयत्वानुग्राहकं देहव्यपदेशस्यापेक्षिकमहेश्वरत्वादिव्यपदेशस्य च तात्पर्यं? श्लोके चोद्देश्योपादेयविभागं? पिण्डितार्थं च दर्शयति -- अनादीति।अनादिमत्परम् [13।13]इत्यादिनोक्त इति परमत्वाभावोक्तिः।अपरिच्छिन्नज्ञानशक्तिरिति तु परत्वमात्रप्रदर्शनम्अयं इत्यनेन तन्मध्यपतितःउपद्रष्टा इति श्लोकोऽपि तद्विषय एवेति प्रकरणस्य जीवविषयत्वं प्रदर्शितम्।देहेऽस्मिन् इत्यनेन प्रागुक्तो हेतुर्विवक्षित इत्यभिप्रायेणअनादिप्रकृतिसम्बन्धकृतगुणसङ्गादित्युक्तम्।