Sbg 13.23 scval

From IKS BHU
Revision as of 13:55, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।13.23।।किञ्च -- उपद्रष्टेति। अस्मिन्वृक्षरूपके देहे द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरेकः पिप्पलं स्वाद्वत्ति? अनश्नन्नन्यो अभिचाकशीति [ऋक्सं.2।3।17।5मुं.उ.3।1।1श्वे.उ.4।6] इति मन्त्रैकवाक्यार्थतया भगवताऽन्योऽपि परमात्माऽन्तर्यामिपुरुष उच्यतेऽसङ्गः प्रसङ्गादिति गम्यते। अतएवपरमात्मा इति चेति पदं दीयतेपरः पुरुषः इति च। सोऽप्युक्त उपद्रष्टा साक्षी वस्तुतः कार्यकारणभोगसङ्गानपेक्षः स्वत एव मुख्यभोक्ता कर्ताषाड्वर्गिकं जिघ्रति षड्गुणेशः इति वाक्यात्। अविज्ञातोऽनुमन्ता च महेश्वरो नियन्ता प्रेरकश्च यद्यपि देहेऽस्मिन् वर्त्तते? तथापि स निर्लेपः अनशनात्। अयं प्राणभृत्तु लिप्तोऽशनादित्येवम्भूतं पुरुषं देहेऽस्मिन्वर्त्तमानं उभयविधं वस्तुतोऽक्षरप्रभावं क्षेत्रज्ञं ब्रह्मांशभूतं चेतनं पुरुषं हंसस्वरूपभूतं स्वरूपतो विविक्तं निर्गुणं च यो वेत्ति प्रकृतिं च गुणैः सह वर्त्तमानां यो वेत्ति? स गुणैर्वर्त्तमानो वा भूयः सर्वथा नाभिजायते न गुणप्रवाहसंसारं भजते किन्तु मुच्यत इत्यर्थः।