Sbg 13.23 scram
Sanskrit Commentary By Sri Ramanuja ।।13.23।। एनम् उक्तस्वभावं पुरुषम् उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिः गुणैः सह यो वेत्ति यथावद् विवेकेन जानाति स सर्वथा देवमनुष्यादिदेहेषु अतिमात्रक्लिष्टप्रकारेण वर्तमानः अपि न भूयः अभिजायते न भूयः प्रकृत्या संसर्गमर्हति? अपरिच्छिन्नज्ञानलक्षणम्? अपहतपाप्मानम् आत्मानं तद्देहावसानसमये प्राप्नोति इत्यर्थः।