Sbg 13.21 scjaya
Sanskrit Commentary By Sri Jayatritha ।।13.21।।कारणानामपि कार्यत्वात् पृथगुक्तिर्व्यर्थेत्यतो रूढिमाश्रित्य कार्यकारणशब्दौ व्याख्याति -- कार्यमि ति।भोक्तृत्वे इत्यत्र प्रकृत्यर्थो भोगोऽभ्यवहारादिसुखादिविषयो न सम्भवति? अत आह -- भोग इति। स्वीयतया साक्षात्कार इत्यर्थः। भोगः प्रकृतेरेव न पुरुषस्य? अतःपुरुषः सुखदुःखानां भोक्तृत्वे हेतुः इति कथमुक्तं इति साङ्खयाः। तत्राह -- स ही ति। न तु प्रकृतिः? अचैतन्यादिति शेषः। ननुकार्यकारणकर्तृत्वे हेतुः प्रकृतिः इत्युक्तम्? कर्तृत्वं च ज्ञानेच्छाप्रत्यययोगः तत्कथं प्रकृतेर्भोगासम्भवः इत्यत आह -- प्रकृतिश्चे ति। चस्त्वर्थः परिणामिकारणत्वात्कर्तृत्वमित्युपचर्यत इति भावः। श्लोकार्थे पुराणसम्मतिमाह -- कार्ये ति।कारणं विदुः इत्त्युत्तरार्धेऽनुवर्तते।