Sbg 13.21 scram
Sanskrit Commentary By Sri Ramanuja ।।13.21।।गुणशब्दः स्वकार्येषु औपचारिकः? स्वतःस्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः प्रकृतिजान् गुणान् प्रकृतिसंसर्गौपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदुःखादीन् भुङ्क्ते अनुभवति।प्रकृतिसंसर्गहेतुम् आह -- पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितः अयं पुरुषः तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषुसुखदुःखादिषु सक्तः तत्साधनहेतुभूतेषु पुण्यपापकर्मसु प्रवर्तते? ततः तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुयोनिषु जायते। ततः च कर्म आरभते? ततः च जायते? यावद् अमानित्वादिकान् आत्मप्राप्तिसाधनभूतान् गुणान् न सेवते? तावद् एव संसरति? तदिदम् उक्तम् -- कारणं गुणसङ्गः अस्य सदसद्योनिजन्मसु। इति।