Sbg 13.20 scneel
Sanskrit Commentary By Sri Neelkanth ।।13.20।।एवं क्षेत्रं शरीराख्यमव्यक्तमुक्तं तत्प्रकाराश्च महदाद्यास्त्रयोविंशतिस्तद्विकारा इच्छादयो ज्ञानाज्ञानशब्दिता अमानित्वमानित्वादयः पुरुषश्च उक्तः। इदानीं क्षेत्रक्षेत्रज्ञयोर्मध्ये यस्माद्यज्जायते तच्च क्षेत्रज्ञस्य प्रभावश्चेति द्वयं वक्तव्यं तत्राद्यं विवृणोति त्रिभिः -- प्रकृतिमिति। सप्तमाध्यायेऽष्टधा या प्रकृतिरपरा उक्ता सात्र प्रकृतिः। या तु जीवभूता परा प्रकृतिरुक्ता सात्र पुरुषशब्देनोच्यते। एतौ हि संपृक्तौ संसारं जनयतः। वियोगश्च तयोर्मोक्षः। तत्र तावुभावप्यनादी विद्धि। तयोरादिमत्त्वे संसारस्याकस्मिकत्वापातात् कृतहानाकृताभ्यागमप्रसङ्गश्चेत्यन्यत्र विस्तरः। विकारान् इच्छादीन् गुणान् बुद्धीन्द्रियादींश्च प्रकृतिसंभवान् विद्धि।