Sbg 13.20 scms

From IKS BHU
Revision as of 13:54, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.20।।तदनेन ग्रन्थेन तत्क्षेत्रं यच्च यादृक्चेत्येतद्व्याख्यातम्। इदानीं यद्विकारि यतश्च यत् स च यो,यत्प्रभावश्चेत्येतद्व्याख्यातव्यम्। तत्र प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन यद्विकारि यतश्च यदिति,प्रकृतिमित्यादि द्वाभ्यां प्रपञ्च्यते। स च यो यत्प्रभावश्चेति तु पुरुष इत्यादिद्वाभ्यामिति विवेकः। तत्र सप्तमे ईश्वरस्य द्वे प्रकृती परापरे क्षेत्रक्षेत्रज्ञलक्षणे उपन्यस्य एतद्योनीनि भूतानीत्युक्तं? तत्रापरा प्रकृतिः क्षेत्रलक्षणा परा तु जीवलक्षणेति तयोरनादित्वमुक्त्वा तदुभययोनित्वं भूतानामुच्यते। प्रकृतिमिति प्रकृतिर्मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्रलक्षणा या प्रागपरा प्रकृतिरित्युक्ता। या तु परा प्रकृतिर्जीवाख्या प्रागुक्ता स इह पुरुष इत्युक्त इति न पूर्वापरविरोधः। प्रकृतिं पुरुषं च उभावपि अनादी एव विद्धि। न विद्यत आदिः कारणं ययोस्तौ। तथा प्रकृतेरनादित्वं सर्वजगत्कारणत्वात्? तस्या अपि कारणतापेक्षत्वेऽनवस्थाप्रसङ्गात्? पुरुषस्यानादित्वं तद्धर्माधर्मप्रयुक्तत्वात्? कृत्स्नस्य जगतः जातस्य हर्षशोकभयसंप्रतिपत्तेः अन्यथा कृतहान्यकृताभ्यागमप्रसङ्गात्। यतः प्रकृतिरनादिः अतस्तस्या भूतयोनित्वमुक्तं प्रागुपपद्यत इत्याह -- विकारानिति। विकारांश्च षोडश पञ्चमहाभूतान्येकादशेन्द्रियाणि च? गुणांश्च सत्त्वरजस्तमोरूपान् सुखदुःखमोहान् प्रकृतिसंभवानेव प्रकृतिकारणकानेव विद्धि जानीहि।