Sbg 13.20 scram
Sanskrit Commentary By Sri Ramanuja ।।13.20।।कार्यं शरीरं कारणानि ज्ञानकर्मात्मकानि समनस्कानि इन्द्रियाणि? तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिः एव हेतुः? पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रया भोगसाधनभूता क्रिया इत्यर्थः।
पुरुषस्य
तु अधिष्ठातृत्वम् एव तदपेक्षया अधिकंकर्ताशास्त्रार्थवत्त्वात् (ब्र0 सू0 2।3।33) इत्यादिकम् उक्तम् शरीराधिष्ठानप्रयत्नहेतुत्वम् एव हि पुरुषस्य कर्तृत्वम्। प्रकृतिसंसृष्टः
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः?
सुखदुःखानुभवाश्रयः इत्यर्थः।एवम् अन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः पुरुषस्य स्वतः स्वानुभवैकसुखस्य अपि वैषयिकसुखदुःखोपभोगहेतुत्वम् आह --