Sbg 13.19 scpur

From IKS BHU
Revision as of 13:54, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।13.19।।उपसंहरति -- इतीति। इति अमुना प्रकारेणमहाभूतानि [13।6] इत्यादिना क्षेत्रंअमानित्वं [13।8] इत्यादिना ज्ञानंअनादिमत्परं ब्रह्म [13।13] इत्यादिना ज्ञेयं? चकारेण सर्वमक्षरात्मकं समासतः सङ्क्षेपेण सौकर्यबोधार्थमुक्तम्। यदर्थमुक्तं तदाह -- मद्भक्त इति। एतदुक्तरूपं विज्ञाय विशेषेण मद्विभूत्यक्षरात्मकं ज्ञात्वा मद्भक्तो मद्भजनशीलः सन् मद्भावाय भावात्मकस्वरूपलाभाय उपपद्यते योग्यः समर्थो वा भवतीत्यर्थः।