Sbg 13.17 scval

From IKS BHU
Revision as of 13:54, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।13.17।।तर्हि खण्डशः स्यादित्याशङ्क्याऽऽह -- अविभक्तमिति। अनन्तमूर्तिष्वपि न परस्परं विभेदः? केवलमिच्छया तावन्मात्रप्रकटनार्थं विभक्तमिव च स्थितम्। पालकरूपेण भूतभर्तृ? संहारकरूपेण ग्रसिष्णु? प्रजापतिरूपेण प्रभविष्णु च। यथोक्तं निबन्धे -- अनन्तमूर्ति तद्ब्रह्म (स्व) ह्मविभक्तं विभक्तिमत्। बहु स्यां प्रजायेयेति वीक्षा तस्य ह्यभूत्सती। तदिच्छामात्रतः सृष्टा ब्रह्मभूतांशचेतनाः। सृष्ट्यादौ निर्गताः सर्वे निराकारास्तदिच्छया।।विस्फुलिङ्गा इवाग्नेस्तु सदंशेन जडा अपि। आनन्दांशस्वरूपेण सर्वान्तर्यामिरूपिणः।।इत्यादि। अस्यार्थः -- बहु स्यामिति अनेकत्वमुच्चनीचत्वं भावयामास। भावना तस्य विषयाव्यभिचारिणी। तदिच्छामात्रतः सृष्टा ब्रह्मभूताः? न तु योगबलेनाविर्भूताः अंशाः मन्दप्रकाशाः साकाराः सूक्ष्मपरिच्छेदाः? चेतनाश्चित्प्रधानाः। सर्वेऽसङ्ख्याताः प्रथमसृष्टौ। ततः साकारा भगवद्रूपा अपि उच्चनीचभावेच्छया निर्गता इति निराकारा जाताः? विस्फुलिङ्गा इव वह्नेः। प्रकृतिः तद्गुणाश्च सत्प्राधान्येन,अन्तर्यामिणस्तु आनन्दांशस्वरूपेण। यथा जीवानां नानात्वं तथाऽन्तर्यामिणामपि? एकस्मिन् हृदि हंसरूपेणोभयोः प्रवेशात्। अतएवात्रापिसर्वस्य हृदि धिष्ठितं इत्युक्तम्। भेदस्तु जीवेऽपि नास्तीति न काप्यनुपपत्ति? इत्येवं त्रैविध्यमंशेन? तत्रापि विचारः -- सति चिदानन्दधर्मयोस्तिरोभावः? चित्यानन्दस्य आनन्दांशतिरोभावस्यापि ज्ञापकं तु निराकारा इति। भगवदाकारश्चतुर्भुजाद्यानन्दमयाकार आकारशब्देनोच्यते आनन्दस्यैव भगवत्याकारसमर्पकत्वात्। एवं स्वरूपेऽवैजात्यं? नामतो वैजात्यं जडश्चिदन्तर्यामिण इति व्यवहार इति।