Sbg 13.17 scram
Sanskrit Commentary By Sri Ramanuja ।।13.17।। ज्योतिषां दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम् दीपादित्यादीनाम् अपि आत्मप्रभारूपं ज्ञानम् एव प्रकाशकम्। दीपादयः तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते? तावन्मात्रेण एव तेषां प्रकाशकत्वम्।तमसः परम् उच्यते -- तमः शब्दः सूक्ष्मावस्थप्रकृतिवचनः? प्रकृतेः परम् उच्यते इत्यर्थः। अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् तत् च ज्ञानगम्यम् अमानित्वादिभिः उक्तैः ज्ञानसाधनैः प्राप्यम् इत्यर्थः। हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषेण अवस्थितं सन्निहितम्।