Sbg 13.13 scdhan

From IKS BHU
Revision as of 13:53, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।13.13।।यथोक्तज्ञानसाधनेन ज्ञानशब्दितेन ज्ञेयं किमित्याकाङ्क्षायामाह -- ज्ञेयमिति। उक्तज्ञानसाधनपरिपाकलब्धसाक्षात्कारवृत्तिविषयं ज्ञेयं। नचैवमन्तःकरणवृत्तिविषयत्वेन ब्रह्मणो दृश्यत्वं तस्य वृत्तिविषयत्वेन ज्ञेयत्वेऽपि फलविषयत्वाभावेन दृश्यत्वाभावात्। तथाच श्रुतिःस वेत्ति वेद्यं न च तस्यास्ति वेत्ता? विज्ञातारमरे केन विजानीयात् इत्याद्या। ज्ञेयं यत्तत्प्रकर्षेण यथावत् वक्ष्यामि। फलप्रदर्शनेन श्रोतारं रोजयन्नभिमुखीकरोति। यज्ज्ञेयं ज्ञात्वाऽमृतमपुनरावृत्तिलक्षणं मोक्षमश्रुते। मुक्तो भवतीत्यर्थः। किं तदित्यत आह। अनादिमत् आदिरस्यास्तीत्यादिमत् नादिमदनादिमत् परं निरतिशयं ब्रह्म ज्ञेयमित्यर्थः। यत्तु अनादिमदिति च्छेदे बहुव्रीहिणोक्तेऽर्थे मतुप,आनर्थक्यप्रसङ्गादुक्तार्थानामप्रयोगीदितिन्यायात् मत्परमिति च्छेदः। अहं वासुदेवाख्या परा शक्तिर्यस्य तस्मत्परमित्यर्थ इति तन्न। न सत्तन्नासदुच्यत इति सर्वविशेषप्रतिषेधेन विजिज्ञापयितत्वेन विशिष्टशक्तिमत्त्वप्रदर्शनस्य विप्रतिषिद्धत्वेनोक्तार्थासंभवात्। तस्मान्मतुपो बहुब्रीहिसमानार्थत्वेऽप्यतिशायने नित्ययोगे वा श्लोकपूरणार्थः प्रयोगः। ननु मम विष्णोः परं निर्विशेषं रुपं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परिमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परामित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैयर्थ्यं मत्तः सगुणात् ब्रह्मणः परमिति वा। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परमित्येवं मतुपः सार्थकत्वसंभवे किमित्याचार्यैरेवमुक्तमिति चेत् परमिति विशेषणादेव सगुणात्परस्य निर्विशेषस्य लाभेन मत्पदवैय्त्यं मत्तः परतरं नान्यदित्यादिना विरोधं परपदस्य पूर्वनिपातापत्तिं कार्यकारणान्यत्वस्य न सदित्यादिविशेषणेऽन्तर्भावं चाभिप्रेत्येति गृहाण। एतेनानादिमत्परिमित्येकं पदम्। अनादिर्माया तद्वतो मायावच्छिन्नादनाद्यज्ञानवतो जीवात्परं निर्मायज्ञानकृतजीवत्वोपाधिरहितं चेत्येवमादि यत्किंचित्कल्पमस्मदादिभिः क्रियमाणमपि हेयं परमिति विशेषणैवोक्तार्थस्य लाभेनानादिमत्पदस्य वैयर्थ्यात्। अनादिमत्परं ब्रह्म ज्ञेयमृतत्वफलं मयोच्यत इति प्ररोजनेनाभिमुखीकृत्याह। सत् कार्यमभिव्यक्तनामरुपत्वात् असत् कारणं तद्विपर्ययात्। तथा च तज्ज्ञेयं सन्नोच्यते नाप्यसदुच्यते। ननु ज्ञेयं वक्ष्यामिति महता कण्ठवेणोद्धुष्य न सत्तन्नासदुच्यत इत्यननुरुपमुक्तमितिचेन्न। स्वयंज्योतीरुपस्य परब्रह्मणः विधिमुखेनोपदेशायोगादध्यस्तातद्धर्मनिवृत्तये निषेधद्वारोपदेशस्य श्रुतिषु प्रसिद्धेरारेपितविशेषनिषेधरुपस्य प्रवचनस्य प्रतिज्ञानुरुपत्वात्। तथाच श्रुतयःअथात आदेशो नेतिनेति? अस्थूलमनणु? अपूर्वमनपरम् इत्यादयः। एवंच ज्ञेयस्य ब्रह्मणो वाचो गोचरत्वात् श्रुत्यादौ निषेधमुखेनैवोपदेशो नत्विदं तदिति विधिमुखेनेति भावः। ननु ब्रह्मणोऽस्तिशब्दावाच्यत्वे नास्तिशब्दवाच्यशशविषाणवन्नास्तित्वप्रसङ्ग इति चेन्न। शशश्रृङ्गवद्ब्रह्मणो नास्तिधीविषयत्वाभावात्। ननु सर्वासां बुद्धीनामस्तिनास्तिनास्तित्वानुगतत्वेन ब्रह्मणोऽन्यतरबुद्य्धविषयत्वेनानिर्वाच्यत्वं दुर्वारमितिचेन्न। इन्द्रियग्राह्यघटादेरुभयबुद्धिविषयाद्विलक्षणस्यातीन्द्रियस्य ब्रह्मणस्तदविषत्वेति शब्दैकप्रमाणगम्यत्वेन ज्ञेयत्वानपायात्। किंच गौरश्व इति वा जातितः? पचति पठतीति वाक्रियातः? शुक्लः कृष्ण इति वा गुणतो? धनी गोमानिति वा संबन्धतः सर्वो गवादिशब्दोऽर्थ प्रत्याययति। ननु ब्रह्म जात्यादिमदतो न सदादिशब्दावाच्य। तथाच श्रुतःअगोत्रमवर्णं? निष्क्रियं शान्तं? केवलो निर्गुणश्च? एकमेवाद्वितीयम् इत्याद्याः। तथाचाविषत्वादात्मत्वात्केनापि शब्देन मुख्यया वृत्त्या ब्रह्म नोच्यत इति युक्तम्।यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादिश्रुतिभ्यश्च।तं त्वौपनिषदं पुरुषं पृच्छामि इत्यत्र तु निषेधमुखोपदेशेनोपनिषत्प्रतिपाद्यमित्यर्थ इत्यविरोधः। यत्तु पूरणार्थात्पृ़ इत्यस्माद्धातो परशब्दव्युत्पत्तेः परं पूर्णं त्रिविधपरिच्छेदशून्यं। ननु देशकालवस्तूनामद्वैतमतेऽसत्त्वात्कुतस्तत्कृतच्छेद इत्याशङ्क्याविद्याविलासत्वं देषां वक्तुं ब्रह्म विशिनष्टि -- अनादिमदिति। अनादि अज्ञानं तद्वत्तसंबन्धीत्यर्थः। तेन देशादीनां संभव इति भावः। नन्वयं शान्तिकर्मणि वेदालोदयः यदज्ञानमेवानादिदितीयमङ्गीक्रियत इत्याशङ्क्याज्ञानं विशिनष्टि -- न सदिति। तदज्ञानं न सदुच्यते बाध्यतया सत्त्वेनानिरुपणात्। तथा नासदुच्यते अपरोक्षतया प्रतीतेरस्तस्यानर्वचनात्। भुजंगेनेव रज्जुर्नाज्ञानेन ब्रह्म सद्वितीयमिति भावः। यद्वास्मिन्व्याख्याने द्वितीयनकारवैयर्थ्याद्ब्रह्मैव विशेषणीयं तद्ब्रह्म न सन्नासदिति नोच्यतेऽनिर्वचनीयं न भवति। सत्त्वेन निरुपणादतोऽर्थादनाद्यज्ञानमेवानिर्वचनीयमित्यर्थ इति तच्चिन्त्यम्। ज्ञेयप्रवचनं प्रतिज्ञायाज्ञाननिरुपणस्यानौचित्यात्। अज्ञानवतो जीवस्य ज्ञातत्वेन ज्ञेयत्वाभावात् ब्रह्म विशेषणीयमिति पक्षे तत्सदुच्यते इत्येतावतैव निर्वाहेऽवशिष्टस्य वैयर्थ्यापत्तेःनासदासीन्नो सदासीत् इत्यादिश्रुत्या विरोधापत्तेश्चेति दिक्।