Sbg 13.10 scdhan
Sanskrit Commentary By Sri Dhanpati ।।13.10।।किंचासक्तिः सङ्निमितेषु विषयेषु प्रीततिमात्रस्याभावः। अनभिष्वङ्गः अन्यस्मिन्पुत्रादौ सुखिनि वा जीवति मृते वाहमेव सुखी दुःखी च जीवामि मरिष्यामीति चेति। पुत्रादिषु तादात्म्यभावनालक्षणस्याभिष्वङ्गस्याभाव। आदिपदादन्यदप्यत्यन्तेषं दासपश्वादिकं गृह्यते। इष्टा नामनिष्टानां चोपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वं इष्टोपपत्तिषु हर्षस्यानिष्टोपपत्तिषु कोपस्य च वर्जनं तच्चैतन्त्रयमपि ज्ञानान्तरङ्गसाधनत्वाज्ज्ञानमित्यर्थः।