Sbg 13.10 scms

From IKS BHU
Revision as of 13:52, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.10।।असक्तिरिति। किंच सक्तिर्ममेदमित्येतावन्मात्रेण प्रीतिः। अभिष्वङ्गस्त्वहमेवायमित्यनन्यत्वभावनया प्रीत्यतिशयः अन्यस्मिन् सुखिनि दुःखिनि वाऽहमेव सुखीदुःखीचेति तद्राहित्यमसक्तिरनभिष्वङ्ग इति चोक्तम्। कुत्र सक्त्यभिष्वङ्गौ वर्जनीयावत आह -- पुत्रेति। पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु आदिग्रहणादन्येष्वपि भृत्यादिषु सर्वेषु स्नेहविषयेष्वित्यर्थः। नित्यं च सर्वदा समचित्तत्वं हर्षविषादशून्यमनस्त्वम्। इष्टानिष्टोपपत्तिषु उपपत्तिः प्राप्तिः। इष्टोपपत्तिषु हर्षाभावोऽनिष्टोपपत्तिषु विषादाभाव इत्यर्थः। चः समुच्चये।