Sbg 13.10 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.10।।साधनान्तरमाह -- किञ्चेति। अनन्ययोगमेव संक्षिप्तं व्यनक्ति -- नेत्यादिना। उक्तधीद्वारा जाताया भक्तेर्भगवति स्थैर्यं दर्शयति -- नेति। तत्रापि ज्ञानशब्दस्तद्धेतुत्वादित्याह -- सा चेति। देशस्य विविक्तत्वं द्विविधमुदाहरति -- विविक्त इति। तदेव स्पष्टयति -- अरण्येति। उक्तदेशसेवित्वं कथं ज्ञाने हेतुस्तत्राह -- विविक्तेष्विति। आत्मादीत्यादिशब्देन परमात्मा वाक्यार्थश्चोच्यते। नन्वरतिविषयत्वेनाविशेषतो जनसंसन्मात्रं किमिति न गृह्यते तत्राह -- तस्या इति। सतः सङ्गस्य भेषजमित्युपालम्भादित्यर्थः।