Sbg 13.8 scvv

From IKS BHU
Revision as of 13:52, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।13.8।।पूर्वं क्षेत्रज्ञादपि पश्चाज्ज्ञानोद्देशेऽपि तत्साधनानामनुष्ठेयानामिच्छादिवत्क्षेत्रकार्यत्वात्तदनन्तरमिह तदुक्तिरित्यभिप्रायेणाह -- अथ क्षेत्रकार्येष्विति। विद्याभिजनधनादिसम्पत्तिमूल उत्कृष्टजनावमानहेतुर्गर्वोऽत्र मानः? तद्वान्मानी? तदन्योऽमानी तस्य भावस्तत्त्वम्? मानित्वस्यास्वभावो वाऽत्रामानित्वम् एवमदम्भित्वमपि तदाह -- तद्रहितत्वमिति।धर्मध्वजः इति स्मृत्युनुसारेणाह -- धार्मिकत्वयशःप्रयोजनतयेति। न पुनश्चोदितकर्तव्यताबुद्ध्येति भावः। अनर्थैकफलपीडारूपो व्यापारो हिंसा स च वाङ्मनःकार्यैस्त्रिभिरपि शापादिद्वारा सम्भवतीति सम्भावितसमस्तप्रकारनिषेधस्य वचनात्सिद्धस्य असङ्कोचेन विवक्षितत्वात्वाङ्मनःकायैरित्युक्तम्।परपीडेति प्रायिकत्वाभिप्रायम्? अशास्त्रीयस्वपीडाया अपि हिंसात्वात्।मनस्यन्यद्वचस्यन्यत् इत्येवंरूपं हि कौटिल्यं? तन्निवृत्तिरार्जवमित्यभिप्रायेणाहपरान्प्रति वाङ्मनःकायप्रवृत्तीनामेकरूपतेति। उपकारबुद्ध्या आचार्योपासनस्य स्वरसवाहित्वज्ञापनायाह -- आत्मज्ञानप्रदायिनीति। यद्वा आत्मज्ञानापेक्षितत्वज्ञापनाय तदुक्तिः।तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया [4।34] इति प्राक्प्रपञ्चितमिहोपासनशब्देन सङ्गृहीतमिति ज्ञापनाय प्रणिपाताद्युपादानम्। अशुचित्वं ह्युत्तरकर्माद्ययोग्यत्वरूपम् शुचित्वं च तद्योग्यत्वम् तच्चात्र प्रकरणविशेषितविषयमित्याहआत्मज्ञानेति। रागादयोऽनृतादयो निषिद्धभक्षणादयश्च मनोवाक्कायानामशुद्धयः। प्रत्यक्षाद्यगोचरत्वप्रामाणिकत्वप्रतिपादनाय तत्तद्विशेषावगमाय चशास्त्रसिद्धेत्युक्तम्। स्थैर्यं निश्चलत्वम् तच्च प्रकृते नियच्छति -- अध्यात्मेति। निश्चलत्वं बाह्यकुदृष्टिभिरक्षोभणीयत्वं? निस्सन्देहत्वमित्यर्थः। निग्राह्यत्वसामर्थ्यादत्रात्मशब्दो मनोविषयः। अत एव परोक्तं (शं.) सङ्घातपरत्वमयुक्तम्। स्वभावेन सर्वतः प्रवृत्तस्य निग्रहश्चापथान्निवर्तनं? तदाहआत्मस्वरूपेति।