Sbg 13.8 scram

From IKS BHU
Revision as of 13:52, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.8।। इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेन उद्वेजनम्। अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्? प्रदर्शनार्थम् इदम्? अनात्मीयेषु आत्मीयाभिमानरहित्वं च अपिविवक्षितम्। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् -- सशरीरत्वे जन्ममृत्युजराव्याधिदुःखस्वरूपस्य दोषस्य अवर्जनीयत्वानुसंधानम्।