Sbg 13.7 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.7।।इच्छा सुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा चित्तवृत्तिः काम इति राग इति चोच्यते। द्वेषो दुःखे तत्साधने चेदं मे भूयादिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इतीर्ष्येति चोच्यते। सुखं निरुपधीच्छाविषयीभूता धर्मासाधरणकारणिका चित्तवृत्तिः परमात्मसुखव्यञ्जिका। दुःखं निरुपधिद्वेषविषयीभूता चित्तवृत्तिरधर्मासाधारणकारणिका। संघातः पञ्चमहाभूतपरिणामः। सेन्द्रियं शरीरं चेतना स्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिर्ज्ञानाख्या। धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः। उपलक्षणमेतदिच्छादिग्रहणं सर्वान्तःकरणधर्माणाम्। तथाच श्रुतिःकामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति। मृद्धटवदुपादानाभेदेन कार्याणां कामादीनां मनोधर्मत्वमाह -- एतदिति। एतत्परिदृश्यमानं सर्वं महाभूतादिधृत्यन्तं जडं क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात्तदनात्मकं क्षेत्रं भास्यमचेतनं समासेनोदाहृतमुक्तम्। ननु शरीरेन्द्रियसंघात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः। यचेतना क्षणिकं ज्ञानमेवात्मेति सुगताः। इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति नैयायिकाः। तत्कथं क्षेत्रमेवैतत्सर्वमिति तत्राह -- सविकारमिति। विकारो जन्मादिर्नाशान्तः परिणामो नैरुक्तैः पठितस्तत्सहितं सविकारमिदं महाभूतादिधृत्यन्तमतो न विकारः साक्षी स्वोत्पत्तिविनाशयोः स्वेन द्रष्टुमशक्यत्वात् अन्येषामपि,स्वधर्माणां स्वदर्शनमन्तरेण दर्शनानुपपत्तेः स्वेनैव स्वदर्शने च कर्तृकर्मविरोधात् निर्विकार एव सर्वविकारसाक्षी। तदुक्तंनर्ते स्याद्विक्रियां दुःखी साक्षिता काऽविकारिणः। धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः।। इति। तेन विकारित्वमेव क्षेत्रचिह्नं नतु परिगणनमित्यर्थः।