Sbg 13.6 scms

From IKS BHU
Revision as of 13:51, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.6।।एवं प्ररोचितायार्जुनाय क्षेत्रस्वरूपं तावदाहद्वाभ्याम् -- महाभूतानीत्यादिना। महान्ति भूतानि भूम्यादीनि पञ्च? अहंकारस्तत्कारणभूतोऽभिमानलक्षणः? बुद्धिरहंकारकारणं महत्तत्त्वमध्यवसायलक्षणं? अव्यक्तं तत्कारणं सत्त्वरजस्तमोगुणात्मकं प्रधानं सर्वकारणं न कस्यापि कार्यम्। एवकारः प्रकृत्यवधारणार्थः। एतावत्येवाष्टधा प्रकृतिः। चशब्दो भेदसमुच्चयार्थः। तदेवं सांख्यमतेन व्याख्यातम्। औपनिषदानां तु अव्यक्तमव्याकृतमनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिर्मम माया दुरत्ययेत्युक्तम्। बुद्धिः सर्गादौ सद्विषयमीक्षणं? अहंकार ईक्षणानन्तरमहं बहु स्यामिति संकल्पः। तत आकाशादिक्रमेण पञ्चभूतोत्पत्तिरिति। न ह्यव्यक्तमहदहंकाराः सांख्यसिद्धा औपनिषदैरुपगम्यन्ते। अशब्दत्वादिहेतुभिरिति स्थितंमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्।ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् इति श्रुतिप्रतिपादितमव्यक्तम्। तदैक्षतेतीक्षणरूपा बुद्धिः।बहुस्यां प्रजायेय इति बहुभवनसंकल्परूपोऽहंकारःतस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी इति पञ्चभूतानि श्रौतानि। अयमेव पक्षः साधीयान्। इन्द्रियाणि दशैकं च श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि? वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति। तानि एकं च मनः संकल्पविकल्पाद्यात्मकं? पञ्च चेन्द्रियगोचराः शब्दस्पर्शरूपरसगन्धास्ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयः कर्मेन्द्रियाणां तु कार्यत्वेन। तान्येतानि सांख्याश्चतुर्विंशतितत्त्वान्याचक्षते।