Sbg 13.6 scanand

From IKS BHU
Revision as of 13:51, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।13.6।।अव्यक्ताहंकारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेर्वैरूप्यप्रसङ्गात्क्षेत्रनिरूपणस्य च प्रकृतत्वात्स्वरूपनिर्देशेनैव तत्क्षेत्रं यच्च यादृक्वेति व्याख्यातमिदानीमिच्छादीनामात्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन यद्विकारीत्येतन्निरूपयन्मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति -- अथेति। सर्वज्ञोक्तिविरोधाद्धेयं वैशेषिकं मतमिति मत्वोक्तं -- भगवानिति। उपलब्धजातीयस्योपलभ्यमानस्यादानेच्छायां हेतुमाह -- सुखेति। इतिशब्दो हेत्वर्थः। सुखहेतुत्वात्तस्मिन्निच्छेत्यर्थः। इच्छां सुखतद्धेतुविषयत्वेन व्याख्यायात्मधर्मत्वं तस्या व्युदस्यति -- सेयमिति। तथापि कथं क्षेत्रान्तर्भूतत्वं तत्राह -- ज्ञेयत्वादिति। इच्छावद्द्वेषोऽपि धर्मो बुद्धेरित्याह -- तथेति। कोऽसौ द्वेषो यस्य बुद्धिधर्मत्वं तत्राह -- यज्जातीयमिति। तस्यापीच्छावत्क्षेत्रान्तर्भावमाह -- सोऽयमिति। इच्छाद्वेषवद्बुद्धिधर्मः सुखमपीत्याह -- तथेति। तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह -- अनुकूलमिति। दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह -- दुःखमिति। देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव संघातं विभजते -- देहेति। विज्ञानवादं प्रत्याह -- तस्यामिति। तप्ते लोहपिण्डे वह्नेरभिव्यक्तिवदुक्तसंहतौ बुद्धिवृत्तिरभिव्यज्यते। तत्र चाग्निरभिव्यक्तो लोहपिण्डमेवाग्निबुद्ध्या ग्राहयति। तथात्मचैतन्यं बुद्धिवृत्तावभिव्यक्तं तामेवात्मतया बोधयत्यतस्तदाभासानुविद्धा सैव चेतनेत्युच्यते। सा च मुख्यचेतनं प्रति ज्ञेयत्वादतद्रूपत्वात्क्षेत्रमेवेत्यर्थः। धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति -- धृतिरित्यादिना। नन्वन्येऽपि संकल्पादयो मनोधर्माः सन्ति ते किमित्यत्र क्षेत्रत्वेन नोच्यन्ते तत्राह -- सर्वेति। तस्योपलक्षणार्थत्वे हेतुमाह -- यत इति। इच्छादिवदस्मिन्नवसरे संकल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य प्रकरणविभागार्थं यतो भगवदुक्तं क्षेत्रमुपसंहरत्यतो युक्तमिच्छादिग्रहस्य सर्वानुक्तबुद्धिधर्मोपलक्षणार्थत्वमित्यर्थः। विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातमित्यनुवदति -- यस्येति। क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्येत्यर्थः। संहतिः समष्टिशरीरम्।