Sbg 13.5 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।13.5।।स्वेनोपदिश्यमानस्यार्थस्येतिहासपुराणमीमांसानुगृहीतानेकश्रुतिसिद्धत्वमाह -- ऋषिभिः इति श्लोकेन। विशदोपबृंहणवाक्यानुसारेण अविशदवेदवाक्यार्थनिश्चयाय प्रथममृषिभिर्गीतत्वोक्तिः। राजसतामसोपबृंहणव्यवच्छेदाय ऋषिशब्दोक्तान्विशिनष्टि -- पराशरादिभिरिति।बहुप्रकारमिति अर्थस्यैकत्वेऽपि वचनव्यक्तौ रथचक्रनद्यादिकल्पनाप्रकारभेदः। यद्वा सङ्क्षेपविस्तारादिरूपेणेत्यर्थः। अविविक्तदेहात्मस्वरूपस्य राज्ञो वाह्यवाहकत्वोक्तिप्रतिक्षेपार्थं वाक्यम् -- अहं त्वं चेति। अध्यात्मगन्धिवाक्यश्रवणमूलस्य कस्त्वमिति प्रश्नस्योत्तरं -- पिण्ड इति।शिरःपाण्यादिलक्षणः इत्यनेन कृत्स्नैकदेशचेतनत्वविकल्पो द्योतितः। प्रतिपादितार्थस्य श्रोतर्यपि स्वप्रत्ययेन दृढीकरणार्थं वाक्यंकिं त्वमिति। एवम्इदं शरीरम् [13।2] इति श्लोकेनोक्तस्य संवादकमुपात्तम्। ननु द्वासुपर्णा इति मन्त्रे तयोरन्यः पिप्पलं स्वाद्वत्ति इति कर्मफलभोक्ता जीव उच्यते अनश्नन्नन्यो अभिचाकशीति [मुं.उ.3।1।1] इति परमात्मेति शारीरकेगुहां प्रविष्टावात्मानौ हितद्दर्शनात् [ब्र.सू.1।2।11]स्थित्यदनाभ्यां च [ब्र.सू.1।3।7] इत्यादिषु प्रपञ्चितम्। ब्राह्मणे तुतयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् इति जन्तुवाचिना सत्त्वशब्देन जीवमभिधायअनश्नन्नन्यो अभिचाकशीतिअनश्नन्नन्यो अभिपश्यतीति क्षेत्रज्ञः तावेतौ सत्त्वक्षेत्रज्ञौ तदेतत्सत्त्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः इति क्षेत्रज्ञशब्देन परमात्मानमेवाभिधत्ते। तावेवात्र क्षेत्रज्ञोपद्रष्ट्टशब्दौ प्रत्यभिज्ञायेतेतं प्राहुः क्षेत्रज्ञः [13।2] इतिउपद्रष्टानुमन्ता [13।23] इति च। मनुश्चयोऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते। यः करोति तु कर्माणि परमा(स भूता)त्मोच्यते बुधैः [मनुः12।12] इति क्षेत्रज्ञशब्देन परमात्मानमाह।
अतः कथमत्र क्षेत्रज्ञो जीव इत्युच्यते इति शङ्कामर्थात्परिहरन्क्षेत्रज्ञं चापि मां विद्धि [13।3] इत्यस्य संवादकं तस्य स्वोक्तार्थानुगुण्यं सूचयन्नवतारयति -- एवं विविक्तयोरिति। तथाच क्षेत्रज्ञशब्दस्य जीवेऽपि प्रयोगदर्शनात्क्षेत्रज्ञो जीव इत्युपपद्यते। प्रत्येकं समुदायेन वाममेदं शिरःममेमौ पाणीममेदं शरीरम् इति क्षेत्रवेदित्वाज्जीवस्य क्षेत्रज्ञत्वम्। परमात्मनस्तुइदं शरीरमेतत्कर्मारम्भायैतत्कर्मफलभोगाय इत्यादिक्षेत्रयाथात्म्यवेदितृत्वेन। एतच्चएतदवयवशः सङ्घातरूपेण च इदमहं वेद्मि इति यो वेत्ति इति [रा.भा.2] भाष्येणयोऽस्यात्मनः कारयिता [12।12] इति मनुवचनेन च ज्ञापितम्। एवमुपद्रष्ट्टत्वमपि जीवस्य स्वशरीरमात्रं प्रति परमात्मनस्तु सर्वचेतनाचेतनान् प्रतीत्युभयोरप्युपद्रष्ट्टत्वमविरुद्धम्। अतो न कस्यापि प्रमाणस्य विरोध इति भावः। स्वरूपवैविध्यस्यछन्दोभिः इति बहुवचनेनैव लाभात् विविधशब्दः प्रकृतप्रतिपाद्यप्रकारवैविध्यपर इत्यभिप्रायेणाह -- पृथग्विधैरिति। पृथग्भूताः विधाः प्रतिपाद्यप्रकारा येषामिति विग्रहः।आम्नायश्छन्दसां दण्डः इत्यादिप्रयोगानुसारेण च्छन्दश्शब्दो वेदपरः? न तु गायत्र्यादिपर इत्यभिप्रयन्नाहऋग्यजुरिति। पृथक्छब्दस्य ऋषिभिरुक्तात्पृथक्त्वपरत्वभ्रमव्युदासायाध्याहारानुषङ्गाभ्यां योजयतिदेहात्मनोः स्वरूपं पृथग्गीतमिति। परस्परविलक्षणं गीतमित्यर्थः। तद्यथा रथस्यारेषु नेमिरर्पिता? नाभावरा अर्पिताः? एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः? प्रज्ञामात्राः प्राणेऽर्पिताः [कौ.उ.3।9] एष म आत्माऽन्तर्हृदये एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मि [छां.उ.3।14।4] दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः [मुं.उ.2।1।2] स कारणं करणाधिपाधिपः [श्वे.उ.6।9] भोक्ता भोग्यं प्रेरितारं च मत्वा [श्वे.उ.1।12] जुष्टस्ततस्तेनामृतत्वमेति [मुं.उ.3।1।1] इत्यादिकमभिप्रेत्याह -- एवमृक्सामाथर्वस्विति।ब्रह्मसूत्र -- इत्यत्र लुप्तषष्ठ्यर्थः सम्बन्धः प्रतिपादकत्वमित्यभिप्रेत्यसूत्रपदैः इत्यत्र षष्ठीसमासभ्रमं वारयतिब्रह्मप्रतिपादनसूत्राख्यैः पदैरिति। फलितमाहशारीरकसूत्रैरिति।हेतुयुक्तैरिति हेतुप्रतिपादकैरित्यर्थः। कर्मणि क्ताश्रयणे प्रयोजनाभावाद्विशेषतो निश्चितं येषामिति भावे क्तं बहुव्रीहिं चाभिप्रेत्याहनिर्णयान्तैरिति? निर्णयफलकैरित्यर्थः।न वियदश्रुतेरित्यारभ्येत्यनेन -- अस्ति तु [ब्र.सू.2।3।2] इत्यादिकं सूत्रषट्कंएतेन मातरिश्वा व्याख्यातः [ब्र.सू.2।3।8]तेजोऽतस्तथा ह्याह [ब्र.सू.2।3।10]आपः [ब्र.सू.2।3।11]पृथिवी [ब्र.सू.2।3।12] इति सूत्रचतुष्टयं च विवक्षितम्।उक्त इति -- अनेनाकाशादीनामुत्पत्तिकथनेन तत्सङ्घातात्मकक्षेत्रयाथात्म्यमुक्तप्रायमिति भावः।नात्मा श्रुतेरित्यारभ्येत्यनेनज्ञोऽत एव? उत्क्रान्तिगत्यागतीनां? स्वात्मना चोत्तरयोः? नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्? स्वशब्दोन्मानाभ्यां च? अविरोधश्चन्दनवत्? अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि? गुणाद्वा लोकवत्? व्यतिरेको गन्धवत् तथाच दर्शयति? पृथगुपदेशात्? तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्? यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्? पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्? नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा? कर्ता शास्त्रार्थवत्त्वात्? उपादानाद्विहारोपदेशाच्च? व्यपदेशाच्च क्रियायां न चेन्निदेशविपर्ययः? उपलब्धिवदनियमः? शक्तिविपर्ययात्? समाध्यभावाच्च? यथाच तक्षोभयधा? परात्तु तच्छ्रुतेः [ब्र.सू.2।3।1740] इत्यन्तं सूत्रजातमभिप्रेतम्।इत्यारभ्य ज्ञोऽत एवेत्यादिभिरिति पाठे इत्यादिशब्देनैतद्विवक्षितम्।भगवत्प्रवर्त्यत्वेनेति? चेतनं प्रति नियमेन नियाम्यद्रव्यत्वस्य शरीरलक्षणत्वादिति भावः। श्रुत्यादिभिः प्रतिपादितस्यैव क्षेत्रक्षेत्रज्ञयाथात्म्यस्य ज्ञातुं शक्यत्वात्त्वत्तः किमर्थं श्रोतव्यमित्याशङ्कापरिहाराय पूर्वोक्तंतत्समासेन मे शृणु [13।4] इत्येतदत्र सङ्गमय्य तत्तात्पर्यमाह -- एवं बहुधा गीतमित्यादि। क्षेत्रक्षेत्रज्ञयाथात्म्यस्य श्रुत्यादिभिरतिविस्तरेण बहुधा गीतत्वात् किञ्चिज्ज्ञेन स्पष्टमवगन्तुमशक्यत्वात्सर्वज्ञेन मया सङ्क्षेपेण सुस्पष्टमुच्यमानं तच्छ्रोतव्यमिति भावः। ,