Sbg 13.5 scsh
Sanskrit Commentary By Sri Shankaracharya ।।13.5।। --, ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्। छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम्। किञ्च? ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यम् गीतम् इति अनुवर्तते। आत्मेत्येवोपासीत (बृह0 उ 0 1।4।7) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते? हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः।।स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान् --,