Sbg 13.3 scval
Sanskrit Commentary By Sri Vallabhacharya ।।13.3।।यस्य च भवति स क्षेत्रज्ञ इह मत्स्वभावापन्न इत्याह -- क्षेत्रज्ञं चापि मां विद्धीति। नहि क्षेत्रिभावेन संसृष्टो जीवः क्षेत्रं स्वतो विविक्तं जानाति? यः कश्चिज्जानाति तं मां विद्धि मदंशत्वान्मद्रूपं पुरुषं जानीहि भगवद्गुणाविर्भावात्तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् [ब्र.सू.2।3।29] इति सूत्रितत्वात्। आदरार्थमेतज्ज्ञानं स्तौतिक्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम इति मदिच्छासम्मतं रक्षेत्।