Sbg 13.3 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.3।।एवं श्लोकद्वयं व्याख्याय श्लोकान्तरमवतारयति -- इदमिति। कुत्र संग्रहोक्तिरुपयुज्यते -- तत्राह -- व्याचिख्यासितस्येति। प्रतिपत्तिसौकर्यार्थं संग्रहोक्तिरर्थवतीत्यर्थः। वक्ष्यमाणेऽर्थे श्रोतुर्मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञामभिप्रेत्याह -- यन्निर्दिष्टमिति। इदं शरीरमिति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति प्रकृतार्थत्वात्तस्येति योजना। तत्क्षेत्रं ज्ञातव्यमित्यध्याहारः। यच्चेति येन रूपेण रूपवदिति तदेव क्षेत्रं विशेष्यते। तस्य क्षेत्रस्य स्वकीया धर्मा जन्मादयस्तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति।
चशब्दपञ्चकस्येतरेतरसमुच्चयार्थत्वमाह --
चशब्द इति।
विकारित्वेनापि हेयत्वं सूचयति --
यद्विकारीति।
यत्कार्यं तत्सर्वं यस्मादुत्पद्यते तत्कारणत्वाज्ज्ञातव्यमित्याह --
यत इति।
क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति --
स
चेति।
स ज्ञातव्य इति संबन्धः। चक्षुराद्युपाधिकृतदृष्ट्यादिशक्तिवशात्तस्य ज्ञातव्यत्वं सूचयति --
यत्प्रभाव इति।
तेनोक्तेन प्रभावेण तस्य ज्ञातव्यतेति शेषः। कथं यथाविशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुमित्याशङ्क्य
भगवद्वाक्यादित्याह --
तदिति।