Sbg 12.18 scdhan
Sanskrit Commentary By Sri Dhanpati ।।12.18।।किंच समः शत्रौ च मित्रे च तथा मानापमानयोः पूजापरिभवयोः शीतोष्णसुखदुःखेषु समः समदुःखसुख इत्यत्र सामान्यसुखदुःखयोर्ग्रहणम्। अत्र तु शीतोष्णनिबन्धयोरित्यपौनरुक्त्यम्। एतत्सर्वं कुत इत्यत आह। यतः सर्वत्र सङ्गेन संसर्गेण विवर्जितः सङ्गस्यैव सर्वदोषजनकत्वान्न कस्यापि सङ्गं करोतीत्यर्थः। अद्वेषटेत्यादिना द्वेषादिविशेषाभाव उक्तः। संप्रति सर्वत्रैवाविकृतचित्तत्वमुच्यते। सर्वत्र चेतने स्त्र्यादावचेतने चन्दनादावित्यर्थ इति भाष्यटीकाकृतः।