Sbg 12.18 scval

From IKS BHU
Revision as of 13:48, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।12.18।।तथा सम इति। शत्रौ मित्रे च मानापमानयोश्च शीतादिषु च स्वयं समः? सेव्ये स्वामिनि श्रीभगवति तु शीतादिकं प्रेम्णा भावयमानस्तत्तत्प्रतीकारसेवां कुर्यादेवेत्याशयेन पुनरुक्तं? अनेवम्भूतानां तु सङ्गेन वर्जितः। एवं भावयतां सङ्गं कुर्वाणः स्यादेव?येऽन्योन्यतो भागवताः इत्यादिवाक्यात्।