Sbg 12.16 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।12.16।।किंच -- अनपेक्ष इति। अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निस्पृहः? शुचिर्बाह्याभ्यन्तरशौचसंपन्नः? तक्षोऽनलसः? उदासीनः पक्षपातरहितः? गतव्यथ आधिशून्यः सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान्परित्यक्तुं शीलं यस्य स एवंभूतः सन् यो मद्भक्तः स मे प्रियः।