Sbg 12.16 scval
Sanskrit Commentary By Sri Vallabhacharya ।।12.16।।अनपेक्ष इति। मत्सेवातिरिक्तं सालोक्यादिकमपि नापेक्षते। तथासालोक्यसार्ष्टिसारूप्यसामीप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः [3।29।13] इति भागवतवचनात्। शुचिराचारवान्आचारप्रभवो धर्मस्तेनैव च सुखी भवेत् इति वाक्यात्। तथा भगवत्सेवायां तत्तच्छृङ्गारयोजने दक्षः चतुरः। तत्प्रतिकूले गृहादावुदासीनः। तत्रापि गतव्यथःभार्यादीनां तथाऽन्येषामसतश्चाक्रमं सहेत् तथा कलत्रादिकं प्रतिकूलं दृष्ट्वा तदीयसर्वविषयारम्भपरित्यागी च। सेवायां हिउद्वेगः प्रतिबन्धो वा भोगो वा स्यात्तु बाधकः इति श्रीमदाचार्यैरप्युच्यते? अतः सर्वारम्भभोगोऽनुचितः घातकत्वात्। य एवम्भूतो भक्तः स मे प्रियः।