Sbg 12.16 scanand
Sanskrit Commentary By Sri Anandgiri ।।12.16।।निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणमित्याह -- अनपेक्ष इति। आदिपदमपेक्षणीयसर्वसंग्रहार्थं? प्रतिपत्तव्येषु प्रतिपत्तुं कर्तव्येषु कर्तुं चेत्यर्थः। परैस्ताडितस्यापि गता व्यथा भयमस्येति व्युत्पत्तिमाश्रित्याह -- गतेति। नच क्षमीत्यनेन पौनरुक्त्यं प्रत्युत्पन्नायामपि व्यथायामपकर्तृष्वनपकर्तृत्वं क्षमित्वमित्यभ्युपगमात्।