Sbg 12.13 scdhan

From IKS BHU
Revision as of 13:47, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।12.13।।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः इत्यनेनाक्षरोपासकानां मोक्षप्राप्तौ स्वातन्त्र्यमुक्त्वाक्लेशोऽधिकतस्तेषामव्यक्तासक्तचेतसां इत्यादिनाऽक्षरोपासनायां मन्दमतित्वादनधिकारिणामुद्धाराय करुणानिधिना भगवताऽधिकतरक्लेशं तत्र प्रदर्श्य आत्मेश्वरमेदमाश्रित्य विश्वरुपं परमेश्वरं चित्तसमाधानलक्षणयोगादिकमुक्तम्। तथाचअन्तस्तद्धर्मोपदेशात् इति सूत्रस्ते कल्पतरौनिर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्पयन्ते सविशेषनिरुपणऐः।।वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् स्वाधीनं मन्यमान अक्षरोपासनायामधिकारसंपत्त्यर्थं सगुणोपासनां स्तौति नतु मोक्षस्यानन्यसाधनत्वेंन श्रुतिस्मृतिन्यायेतिहासपुराणस्तत्र तत्र प्रतिपादिताया इतरसाधनफलभूताया अक्षरोपासनाया हेयतायै। तस्मादस्मिन् जन्मनि जन्मान्तरे वा पूर्वपूर्वसाधनानुष्ठानक्रमेण प्राप्ताक्षरोपासनानां सम्यग्ज्ञाननिष्ठानां संन्यासिनां त्यक्तपुत्रदारवित्तैषणानां अद्वेष्टृत्वादिधर्मसमुदायः साक्षात्स्वातन्त्र्येण मोक्षासाधनं वक्तुकाम आह भगवान् -- अद्वेष्टेति। सर्वभूतानां यथायथं स्वस्मादुष्कृष्टेषु स्वस्मिन्द्वेषकर्तृषु च द्वेषवर्जितः समानेषु मित्रतया वर्तत इति मैत्रः। अज्ञेषु दुःखितेषु करुणा दया तद्वान्यतः सर्वाणि भूतान्यात्सत्वेवानुपश्यति। यद्वा सर्वाणि भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावति प्रतिकूलबुद्य्धभावादद्वेष्टा सर्वभूतानां? न केवलमद्वेष्टा सर्वभूतानां किंतु मैत्रः स्नेहवान्। यतः करुणः। यद्वा सर्वभूतानामद्वेष्टा तर्हि द्वेषवर्जित उदासीनः स्यान्नेत्याह। मैत्रः। तर्हि उपकारमपेक्ष्योपकारकर्ता। बन्धनहेतुस्नेहयुक्तश्च स्यान्नेत्याह। करुणः कृपावान्। सर्वभूताभयप्रदः संन्यासीत्यर्थः। दुःखितेषु कृपया मैत्रः नतु रागादुपकारपेक्षया वा। ममत्वेन गृहीतस्य गेहादेः अहंकारास्पदत्वेन कल्पितस्य च देहादेः प्रतिकूलेषु द्वेषोऽनुकूलेषु रागश्च लोकस्य दृश्यते? तत्त्वविदः संन्यासिनानस्त्वेतन्नास्तीत्याह। निर्ममो निरहंकारः ममेतिप्रत्ययवर्जितः ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहंकारप्रत्ययान्निर्गतः। अतएव समे द्वेषराग्योरप्रवर्तके सुखदुःखे यस्य। अतएव क्षमी क्षमावान् आकुष्योऽपि ताडितोऽप्यविक्रिय एवास्त इत्यर्थः।