Sbg 12.13 scsh
Sanskrit Commentary By Sri Shankaracharya ।।12.13।। --, अद्वेष्टा सर्वभूतानां न द्वेष्टा? आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि? सर्वाणि भूतानि आत्मत्वेन हि पश्यति। मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः। करुणः एव च? करुणा कृपा दुःखितेषु दया? तद्वान् करुणः? सर्वभूताभयप्रदः? संन्यासी इत्यर्थः। निर्ममः ममप्रत्ययवर्जितः। निरहंकारः निर्गताहंप्रत्ययः। समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः। क्षमी क्षमावान्? आक्रुष्टः अभिहतो वा अविक्रियः एव आस्ते।।