Sbg 12.7 scang

From IKS BHU
Revision as of 13:45, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।12.6 -- 12.8।।येत्वित्यादि आस्थित इत्यन्तम्। प्रागुक्तोपदेशेन (S प्रागुपदेशेन) तु ये सर्वं मयि संन्यस्यन्ति? तेषामहं समुद्धर्त्ता सकलविघ्नादिक्लेशेभ्यः। चेतस आवेशनं व्याख्यातम्। तथा च एष एवोत्तमो योगः? अकृत्रिमत्त्वात्। तथा च मम स्तोत्रे -- विशिष्टकरणासनस्थितिसमाधिसंभावना


विभाविततया यदा कमपि बोधमुल्लासयेत्।


न सा तव सदोदिता स्वरसवाहिनी या चिति


र्यतस्त्रितयसन्निधो स्फुटमिहापि संवेद्यते।।यदा तु विगतेन्धनः स्ववशवर्त्तितां संश्रय


न्नकृत्रिमसमुल्लसत्पुलककम्पबाष्पानुगः।


शरीरनिरपेक्षतां स्फुटमुपाददानश्चितः


स्वयं झगिति बुध्यते युगपदेव बोधानलः।


तदैव तव देवि तद्वपुरुपाश्रयैर्वर्जितं ( -- वपुरुपाशयैर्वर्जितं N -- वपुरुपाशयैर्वर्जितं (श्रितैर्वर्जितं)


महेशमवबुध्यते विवशपाशसंक्षोभकम्।।


इत्यादि।